rigveda/4/57/5

शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑। तेने॒मामुप॑ सिञ्चतम् ॥५॥

शुना॑सीरौ । इ॒माम् । वाच॑म् । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथुः॑ । पयः॑ । तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥

ऋषिः - वामदेवो गौतमः

देवता - शुनासीरौ

छन्दः - पुरउष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

शुना॑सीरावि॒मां वाचं॑ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑। तेने॒मामुप॑ सिञ्चतम् ॥५॥

स्वर सहित पद पाठ

शुना॑सीरौ । इ॒माम् । वाच॑म् । जु॒षे॒था॒म् । यत् । दि॒वि । च॒क्रथुः॑ । पयः॑ । तेन॑ । इ॒माम् । उप॑ । सि॒ञ्च॒त॒म् ॥


स्वर रहित मन्त्र

शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः। तेनेमामुप सिञ्चतम् ॥५॥


स्वर रहित पद पाठ

शुनासीरौ । इमाम् । वाचम् । जुषेथाम् । यत् । दिवि । चक्रथुः । पयः । तेन । इमाम् । उप । सिञ्चतम् ॥