rigveda/4/55/6

नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः। स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥६॥

नु । रो॒द॒सी॒ इति॑ । अहि॑ना । बु॒ध्न्ये॑न । स्तु॒वी॒त । दे॒वी॒ इति॑ । अप्ये॑भिः । इ॒ष्टैः । स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । घ॒र्मऽस्व॑रसः । न॒द्यः॑ । अप॑ । व्र॒न् ॥

ऋषिः - वामदेवो गौतमः

देवता - विश्वेदेवा:

छन्दः - स्वराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

नू रो॑दसी॒ अहि॑ना बु॒ध्न्ये॑न स्तुवी॒त दे॑वी॒ अप्ये॑भिरि॒ष्टैः। स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो॑ घ॒र्मस्व॑रसो न॒द्यो॒३॒॑ अप॑ व्रन् ॥६॥

स्वर सहित पद पाठ

नु । रो॒द॒सी॒ इति॑ । अहि॑ना । बु॒ध्न्ये॑न । स्तु॒वी॒त । दे॒वी॒ इति॑ । अप्ये॑भिः । इ॒ष्टैः । स॒मु॒द्रम् । न । स॒म्ऽचर॑णे । स॒नि॒ष्यवः॑ । घ॒र्मऽस्व॑रसः । न॒द्यः॑ । अप॑ । व्र॒न् ॥


स्वर रहित मन्त्र

नू रोदसी अहिना बुध्न्येन स्तुवीत देवी अप्येभिरिष्टैः। समुद्रं न संचरणे सनिष्यवो घर्मस्वरसो नद्यो३ अप व्रन् ॥६॥


स्वर रहित पद पाठ

नु । रोदसी इति । अहिना । बुध्न्येन । स्तुवीत । देवी इति । अप्येभिः । इष्टैः । समुद्रम् । न । सम्ऽचरणे । सनिष्यवः । घर्मऽस्वरसः । नद्यः । अप । व्रन् ॥