rigveda/4/55/3
ऋषिः - वामदेवो गौतमः
देवता - विश्वेदेवा:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
प्र । प॒स्त्या॑म् । अदि॑तिम् । सिन्धु॑म् । अ॒र्कैः । स्व॒स्तिम् । ई॒ळे॒ । स॒ख्याय॑ । दे॒वीम् । उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । नि॒ऽपातः॑ । उ॒षसा॒नक्ता॑ । क॒र॒ता॒म् । अद॑ब्धे॒ इति॑ ॥
प्र । पस्त्याम् । अदितिम् । सिन्धुम् । अर्कैः । स्वस्तिम् । ईळे । सख्याय । देवीम् । उभे इति । यथा । नः । अहनी इति । निऽपातः । उषसानक्ता । करताम् । अदब्धे इति ॥