rigveda/4/53/7

आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म्। स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव॑न्तं र॒यिम॒स्मे समि॑न्वतु ॥७॥

आ । अ॒ग॒न् । दे॒वः । ऋ॒तुऽभिः॑ । वर्ध॑तु । क्षय॑म् । दधा॑तु । नः॒ । स॒वि॒ता । सु॒ऽप्र॒जाम् । इष॑म् । सः । नः॒ । क्ष॒पाभिः॑ । अह॑ऽभिः । च॒ । जि॒न्व॒तु॒ । प्र॒जाऽव॑न्तम् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒तु॒ ॥

ऋषिः - वामदेवो गौतमः

देवता - सविता

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

आग॑न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा॑तु नः सवि॒ता सु॑प्र॒जामिष॑म्। स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव॑न्तं र॒यिम॒स्मे समि॑न्वतु ॥७॥

स्वर सहित पद पाठ

आ । अ॒ग॒न् । दे॒वः । ऋ॒तुऽभिः॑ । वर्ध॑तु । क्षय॑म् । दधा॑तु । नः॒ । स॒वि॒ता । सु॒ऽप्र॒जाम् । इष॑म् । सः । नः॒ । क्ष॒पाभिः॑ । अह॑ऽभिः । च॒ । जि॒न्व॒तु॒ । प्र॒जाऽव॑न्तम् । र॒यिम् । अ॒स्मे इति॑ । सम् । इ॒न्व॒तु॒ ॥


स्वर रहित मन्त्र

आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम्। स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥७॥


स्वर रहित पद पाठ

आ । अगन् । देवः । ऋतुऽभिः । वर्धतु । क्षयम् । दधातु । नः । सविता । सुऽप्रजाम् । इषम् । सः । नः । क्षपाभिः । अहऽभिः । च । जिन्वतु । प्रजाऽवन्तम् । रयिम् । अस्मे इति । सम् । इन्वतु ॥