rigveda/4/51/2

अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ताइ॑व॒ स्वर॑वोऽध्व॒रेषु॑। व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥२॥

अस्थुः॑ । ऊँ॒ इति॑ । चि॒त्राः । उ॒षसः॑ । पु॒रस्ता॑त् । मि॒ताःऽइ॑व । स्वर॑वः । अ॒ध्व॒रेषु॑ । वि । ऊँ॒ इति॑ । व्र॒जस्य॑ । तम॑सः । द्वारा॑ । उ॒च्छन्तीः॑ । अ॒व्र॒न् । शुच॑यः । पाव॒काः ॥

ऋषिः - वामदेवो गौतमः

देवता - उषाः

छन्दः - पङ्क्तिः

स्वरः - पञ्चमः

स्वर सहित मन्त्र

अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता॑न्मि॒ताइ॑व॒ स्वर॑वोऽध्व॒रेषु॑। व्यू॑ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती॑रव्र॒ञ्छुच॑यः पाव॒काः ॥२॥

स्वर सहित पद पाठ

अस्थुः॑ । ऊँ॒ इति॑ । चि॒त्राः । उ॒षसः॑ । पु॒रस्ता॑त् । मि॒ताःऽइ॑व । स्वर॑वः । अ॒ध्व॒रेषु॑ । वि । ऊँ॒ इति॑ । व्र॒जस्य॑ । तम॑सः । द्वारा॑ । उ॒च्छन्तीः॑ । अ॒व्र॒न् । शुच॑यः । पाव॒काः ॥


स्वर रहित मन्त्र

अस्थुरु चित्रा उषसः पुरस्तान्मिताइव स्वरवोऽध्वरेषु। व्यू व्रजस्य तमसो द्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥२॥


स्वर रहित पद पाठ

अस्थुः । ऊँ इति । चित्राः । उषसः । पुरस्तात् । मिताःऽइव । स्वरवः । अध्वरेषु । वि । ऊँ इति । व्रजस्य । तमसः । द्वारा । उच्छन्तीः । अव्रन् । शुचयः । पावकाः ॥