rigveda/4/51/1

इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात्। नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥१॥

इ॒दम् । ऊँ॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् । नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥

ऋषिः - वामदेवो गौतमः

देवता - उषाः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

इ॒दमु॒ त्यत्पु॑रु॒तमं॑ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना॑वदस्थात्। नू॒नं दि॒वो दु॑हि॒तरो॑ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना॑य ॥१॥

स्वर सहित पद पाठ

इ॒दम् । ऊँ॒ इति॑ । त्यत् । पु॒रु॒ऽतम॑म् । पु॒रस्ता॑त् । ज्योतिः॑ । तम॑सः । व॒युन॑ऽवत् । अ॒स्था॒त् । नू॒नम् । दि॒वः । दु॒हि॒तरः॑ । वि॒ऽभा॒तीः । गा॒तुम् । कृ॒ण॒व॒न् । उ॒षसः॑ । जना॑य ॥


स्वर रहित मन्त्र

इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात्। नूनं दिवो दुहितरो विभातीर्गातुं कृणवन्नुषसो जनाय ॥१॥


स्वर रहित पद पाठ

इदम् । ऊँ इति । त्यत् । पुरुऽतमम् । पुरस्तात् । ज्योतिः । तमसः । वयुनऽवत् । अस्थात् । नूनम् । दिवः । दुहितरः । विऽभातीः । गातुम् । कृणवन् । उषसः । जनाय ॥