rigveda/4/47/3

वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती। नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥३॥

वायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ । नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् सोम॑ऽपीतये ॥

ऋषिः - वामदेवो गौतमः

देवता - इन्द्रवायू

छन्दः - अनुष्टुप्

स्वरः - गान्धारः

स्वर सहित मन्त्र

वाय॒विन्द्र॑श्च शु॒ष्मिणा॑ स॒रथं॑ शवसस्पती। नि॒युत्व॑न्ता न ऊ॒तय॒ आ या॑तं॒ सोम॑पीतये ॥३॥

स्वर सहित पद पाठ

वायो॒ इति॑ । इन्द्रः॑ । च॒ । शु॒ष्मिणा॑ । स॒ऽरथ॑म् । श॒व॒सः॒ । प॒ती॒ इति॑ । नि॒युत्व॑न्ता । नः॒ । ऊ॒तये॑ । आ । या॒त॒म् सोम॑ऽपीतये ॥


स्वर रहित मन्त्र

वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती। नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥३॥


स्वर रहित पद पाठ

वायो इति । इन्द्रः । च । शुष्मिणा । सऽरथम् । शवसः । पती इति । नियुत्वन्ता । नः । ऊतये । आ । यातम् सोमऽपीतये ॥