rigveda/4/44/2

यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः। यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥२॥

यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः । यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥

ऋषिः - पुरुमीळहाजमीळहौ सौहोत्रौ

देवता - अश्विनौ

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो॑ नपाता वनथः॒ शची॑भिः। यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह॑न्ति॒ यत्क॑कु॒हासो॒ रथे॑ वाम् ॥२॥

स्वर सहित पद पाठ

यु॒वम् । श्रिय॑म् । अ॒श्वि॒ना॒ । दे॒वता॑ । तान् । दिवः॑ । न॒पा॒ता॒ । व॒न॒थः॒ । शची॑भिः । यु॒वोः । वपुः॑ । अ॒भि । पृक्षः॑ । स॒च॒न्ते॒ । वह॑न्ति । यत् । क॒कु॒हासः॑ । रथे॑ । वा॒म् ॥


स्वर रहित मन्त्र

युवं श्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः। युवोर्वपुरभि पृक्षः सचन्ते वहन्ति यत्ककुहासो रथे वाम् ॥२॥


स्वर रहित पद पाठ

युवम् । श्रियम् । अश्विना । देवता । तान् । दिवः । नपाता । वनथः । शचीभिः । युवोः । वपुः । अभि । पृक्षः । सचन्ते । वहन्ति । यत् । ककुहासः । रथे । वाम् ॥