rigveda/4/42/8
ऋषिः - त्रसदस्युः पौरुकुत्स्यः
देवता - इन्द्रावरुणौ
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
अ॒स्माक॑म् । अत्र॑ । पि॒तरः॑ । ते । आ॒स॒न् । स॒प्त । ऋष॑यः । दौः॒ऽग॒हे । ब॒ध्यमा॑ने । ते । आ । अ॒य॒ज॒न्त॒ । त्र॒सद॑स्युम् । अ॒स्याः॒ । इन्द्र॑म् । न । वृ॒त्र॒ऽतुर॑म् । अ॒र्ध॒ऽदे॒वम् ॥
अस्माकम् । अत्र । पितरः । ते । आसन् । सप्त । ऋषयः । दौःऽगहे । बध्यमाने । ते । आ । अयजन्त । त्रसदस्युम् । अस्याः । इन्द्रम् । न । वृत्रऽतुरम् । अर्धऽदेवम् ॥