rigveda/4/40/3
ऋषिः - वामदेवो गौतमः
देवता - दधिक्रावा
छन्दः - स्वराट्त्रिष्टुप्
स्वरः - धैवतः
उ॒त । स्म॒ । अ॒स्य॒ । द्रव॑तः । तु॒र॒ण्य॒तः । प॒र्णम् । न । वेः । अनु॑ । वा॒ति॒ । प्र॒ऽग॒र्धिनः॑ । श्ये॒नस्य॑ऽइव । ध्रज॑तः । अ॒ङ्क॒सम् । परि॑ । द॒धि॒ऽक्राव्णः॑ । स॒ह । ऊ॒र्जा । तरि॑त्रतः ॥
उत । स्म । अस्य । द्रवतः । तुरण्यतः । पर्णम् । न । वेः । अनु । वाति । प्रऽगर्धिनः । श्येनस्यऽइव । ध्रजतः । अङ्कसम् । परि । दधिऽक्राव्णः । सह । ऊर्जा । तरित्रतः ॥