rigveda/4/35/5

शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म्। शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः ॥५॥

शच्या॑ । अ॒क॒र्त॒ । पि॒तरा॑ । युवा॑ना । शच्या॑ । अ॒क॒र्त॒ । च॒म॒सम् । दे॒व॒ऽपान॑म् । शच्या॑ । हरी॒ इति॑ । धनु॑ऽतरौ । अ॒त॒ष्ट॒ । इ॒न्द्र॒ऽवाहौ॑ । ऋ॒भ॒वः॒ । वा॒ज॒ऽर॒त्नाः॒ ॥

ऋषिः - वामदेवो गौतमः

देवता - ऋभवः

छन्दः - स्वराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

शच्या॑कर्त पि॒तरा॒ युवा॑ना॒ शच्या॑कर्त चम॒सं दे॑व॒पान॑म्। शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा॑वृभवो वाजरत्नाः ॥५॥

स्वर सहित पद पाठ

शच्या॑ । अ॒क॒र्त॒ । पि॒तरा॑ । युवा॑ना । शच्या॑ । अ॒क॒र्त॒ । च॒म॒सम् । दे॒व॒ऽपान॑म् । शच्या॑ । हरी॒ इति॑ । धनु॑ऽतरौ । अ॒त॒ष्ट॒ । इ॒न्द्र॒ऽवाहौ॑ । ऋ॒भ॒वः॒ । वा॒ज॒ऽर॒त्नाः॒ ॥


स्वर रहित मन्त्र

शच्याकर्त पितरा युवाना शच्याकर्त चमसं देवपानम्। शच्या हरी धनुतरावतष्टेन्द्रवाहावृभवो वाजरत्नाः ॥५॥


स्वर रहित पद पाठ

शच्या । अकर्त । पितरा । युवाना । शच्या । अकर्त । चमसम् । देवऽपानम् । शच्या । हरी इति । धनुऽतरौ । अतष्ट । इन्द्रऽवाहौ । ऋभवः । वाजऽरत्नाः ॥