rigveda/4/34/2

वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑र्ऋभवो मादयध्वम्। सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥२॥

वि॒दा॒नासः॑ । जन्म॑नः । वा॒ज॒ऽर॒त्नाः॒ । उ॒त । ऋ॒तुऽभिः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । सम् । वः॒ । मदाः॑ । अग्म॑त । सम् । पुर॑म्ऽधिः । सु॒ऽवीरा॑म् । अ॒स्मे इति॑ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥

ऋषिः - वामदेवो गौतमः

देवता - ऋभवः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑र्ऋभवो मादयध्वम्। सं वो॒ मदा॒ अग्म॑त॒ सं पुरं॑धिः सु॒वीरा॑म॒स्मे र॒यिमेर॑यध्वम् ॥२॥

स्वर सहित पद पाठ

वि॒दा॒नासः॑ । जन्म॑नः । वा॒ज॒ऽर॒त्नाः॒ । उ॒त । ऋ॒तुऽभिः॑ । ऋ॒भ॒वः॒ । मा॒द॒य॒ध्व॒म् । सम् । वः॒ । मदाः॑ । अग्म॑त । सम् । पुर॑म्ऽधिः । सु॒ऽवीरा॑म् । अ॒स्मे इति॑ । र॒यिम् । आ । ई॒र॒य॒ध्व॒म् ॥


स्वर रहित मन्त्र

विदानासो जन्मनो वाजरत्ना उत ऋतुभिर्ऋभवो मादयध्वम्। सं वो मदा अग्मत सं पुरंधिः सुवीरामस्मे रयिमेरयध्वम् ॥२॥


स्वर रहित पद पाठ

विदानासः । जन्मनः । वाजऽरत्नाः । उत । ऋतुऽभिः । ऋभवः । मादयध्वम् । सम् । वः । मदाः । अग्मत । सम् । पुरम्ऽधिः । सुऽवीराम् । अस्मे इति । रयिम् । आ । ईरयध्वम् ॥