rigveda/4/3/8

क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः। प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥८॥

क॒था । शर्धा॑य । म॒रुता॑म् । ऋ॒ताय॑ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा॑नः । प्रति॑ । ब्र॒वः॒ । अदि॑तये । तु॒राय॑ । साध॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥

ऋषिः - वामदेवो गौतमः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः। प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान् ॥८॥

स्वर सहित पद पाठ

क॒था । शर्धा॑य । म॒रुता॑म् । ऋ॒ताय॑ । क॒था । सू॒रे । बृ॒ह॒ते । पृ॒च्छ्यमा॑नः । प्रति॑ । ब्र॒वः॒ । अदि॑तये । तु॒राय॑ । साध॑ । दि॒वः । जा॒त॒ऽवे॒दः॒ । चि॒कि॒त्वान् ॥


स्वर रहित मन्त्र

कथा शर्धाय मरुतामृताय कथा सूरे बृहते पृच्छ्यमानः। प्रति ब्रवोऽदितये तुराय साधा दिवो जातवेदश्चिकित्वान् ॥८॥


स्वर रहित पद पाठ

कथा । शर्धाय । मरुताम् । ऋताय । कथा । सूरे । बृहते । पृच्छ्यमानः । प्रति । ब्रवः । अदितये । तुराय । साध । दिवः । जातऽवेदः । चिकित्वान् ॥