rigveda/4/27/1
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
गर्भे॑ । नु । सन् । अनु॑ । ए॒षा॒म् । अ॒वे॒द॒म् । अ॒हम् । दे॒वाना॑म् । जनि॑मानि । विश्वा॑ । श॒तम् । मा॒ । पुरः॑ । आय॑सीः । अ॒र॒क्ष॒न् । अध॑ । श्ये॒नः । ज॒वसा॑ । निः । अ॒दी॒य॒म् ॥
गर्भे । नु । सन् । अनु । एषाम् । अवेदम् । अहम् । देवानाम् । जनिमानि । विश्वा । शतम् । मा । पुरः । आयसीः । अरक्षन् । अध । श्येनः । जवसा । निः । अदीयम् ॥