rigveda/4/26/7
ऋषिः - वामदेवो गौतमः
देवता - इन्द्र:
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
आ॒ऽदाय॑ । श्ये॒नः । अ॒भ॒र॒त् । सोम॑म् । स॒हस्र॑म् । स॒वान् । अ॒युत॑म् । च॒ । सा॒कम् । अत्र॑ । पुर॑म्ऽधिः । अ॒ज॒हा॒त् । अरा॑तीः । मदे॑ । सोम॑स्य । मू॒राः । अमू॑रः ॥
आऽदाय । श्येनः । अभरत् । सोमम् । सहस्रम् । सवान् । अयुतम् । च । साकम् । अत्र । पुरम्ऽधिः । अजहात् । अरातीः । मदे । सोमस्य । मूराः । अमूरः ॥