rigveda/4/24/8

य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः। अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥८॥

य॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः । अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥

ऋषिः - वामदेवो गौतमः

देवता - इन्द्र:

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

य॒दा स॑म॒र्यं व्यचे॒दृघा॑वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः। अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा॑ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ॥८॥

स्वर सहित पद पाठ

य॒दा । स॒ऽम॒र्यम् । वि । अचे॑त् । ऋघा॑वा । दी॒र्घम् । यत् । आ॒जिम् । अ॒भि । अख्य॑त् । अ॒र्यः । अचि॑क्रदत् । वृष॑णम् । पत्नी॑ । अच्छ॑ । दु॒रो॒णे । आ । निऽशि॑तम् । सो॒म॒सुत्ऽभिः॑ ॥


स्वर रहित मन्त्र

यदा समर्यं व्यचेदृघावा दीर्घं यदाजिमभ्यख्यदर्यः। अचिक्रदद्वृषणं पत्न्यच्छा दुरोण आ निशितं सोमसुद्भिः ॥८॥


स्वर रहित पद पाठ

यदा । सऽमर्यम् । वि । अचेत् । ऋघावा । दीर्घम् । यत् । आजिम् । अभि । अख्यत् । अर्यः । अचिक्रदत् । वृषणम् । पत्नी । अच्छ । दुरोणे । आ । निऽशितम् । सोमसुत्ऽभिः ॥