rigveda/4/23/8
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रऋतदेवो वा
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
ऋ॒तस्य॑ । हि । शु॒रुऽधः॑ । सन्ति॑ । पू॒र्वीः । ऋ॒तस्य॑ । धी॒तिः । वृ॒जि॒नानि॑ । ह॒न्ति॒ । ऋ॒तस्य॑ । श्लोकः॑ । ब॒धि॒रा । त॒त॒र्द॒ । कर्णा॑ । बु॒धा॒नः । शु॒चमा॑नः । आ॒योः ॥
ऋतस्य । हि । शुरुऽधः । सन्ति । पूर्वीः । ऋतस्य । धीतिः । वृजिनानि । हन्ति । ऋतस्य । श्लोकः । बधिरा । ततर्द । कर्णा । बुधानः । शुचमानः । आयोः ॥