rigveda/4/2/3

अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा। अ॒न्तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्मांश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥३॥

अत्या॑ । वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू । रोहि॑ता । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ऋ॒तस्य॑ । म॒न्ये॒ । मन॑सा । जवि॑ष्ठा । अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः॑ । आ । च॒ । मर्ता॑न् ॥

ऋषिः - वामदेवो गौतमः

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

अत्या॑ वृध॒स्नू रोहि॑ता घृ॒तस्नू॑ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा। अ॒न्तरी॑यसे अरु॒षा यु॑जा॒नो यु॒ष्मांश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ॥३॥

स्वर सहित पद पाठ

अत्या॑ । वृ॒ध॒स्नू इति॑ वृ॒ध॒ऽस्नू । रोहि॑ता । घृ॒तस्नू॒ इति॑ घृ॒तऽस्नू॑ । ऋ॒तस्य॑ । म॒न्ये॒ । मन॑सा । जवि॑ष्ठा । अ॒न्तः । ई॒य॒से॒ । अ॒रु॒षा । यु॒जा॒नः । यु॒ष्मान् । च॒ । दे॒वान् । विशः॑ । आ । च॒ । मर्ता॑न् ॥


स्वर रहित मन्त्र

अत्या वृधस्नू रोहिता घृतस्नू ऋतस्य मन्ये मनसा जविष्ठा। अन्तरीयसे अरुषा युजानो युष्मांश्च देवान्विश आ च मर्तान् ॥३॥


स्वर रहित पद पाठ

अत्या । वृधस्नू इति वृधऽस्नू । रोहिता । घृतस्नू इति घृतऽस्नू । ऋतस्य । मन्ये । मनसा । जविष्ठा । अन्तः । ईयसे । अरुषा । युजानः । युष्मान् । च । देवान् । विशः । आ । च । मर्तान् ॥