rigveda/4/18/9
ऋषिः - वामदेवो गौतमः
देवता - इन्द्रादिती
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
मम॑त् । च॒न । ते॒ । म॒घ॒ऽव॒न् । विऽअं॑सः । नि॒ऽवि॒वि॒ध्वान् । अप॑ । हनू॒ इति॑ । ज॒घान॑ । अध॑ । निऽवि॑द्धः । उत्ऽत॑रः । ब॒भू॒वान् । शिरः॑ । दा॒सस्य॑ । सम् । पि॒ण॒क् । व॒धेन॑ ॥
ममत् । चन । ते । मघऽवन् । विऽअंसः । निऽविविध्वान् । अप । हनू इति । जघान । अध । निऽविद्धः । उत्ऽतरः । बभूवान् । शिरः । दासस्य । सम् । पिणक् । वधेन ॥