rigveda/4/17/11

समिन्द्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः। ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता सं॑भ॒रश्च॒ वस्वः॑ ॥११॥

सम् । इन्द्रः॑ । गाः । अ॒ज॒य॒त् । सम् । हिर॑ण्या । सम् । अ॒श्वि॒या । म॒घऽवा॑ । यः । ह॒ । पू॒र्वीः । ए॒भिः । नृऽभिः॑ । नृऽत॑मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒ऽभ॒क्ता । स॒म्ऽभ॒रः । च॒ । वस्वः॑ ॥

ऋषिः - वामदेवो गौतमः

देवता - इन्द्र:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

समिन्द्रो॒ गा अ॑जय॒त्सं हिर॑ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः। ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता सं॑भ॒रश्च॒ वस्वः॑ ॥११॥

स्वर सहित पद पाठ

सम् । इन्द्रः॑ । गाः । अ॒ज॒य॒त् । सम् । हिर॑ण्या । सम् । अ॒श्वि॒या । म॒घऽवा॑ । यः । ह॒ । पू॒र्वीः । ए॒भिः । नृऽभिः॑ । नृऽत॑मः । अ॒स्य॒ । शा॒कैः । रा॒यः । वि॒ऽभ॒क्ता । स॒म्ऽभ॒रः । च॒ । वस्वः॑ ॥


स्वर रहित मन्त्र

समिन्द्रो गा अजयत्सं हिरण्या समश्विया मघवा यो ह पूर्वीः। एभिर्नृभिर्नृतमो अस्य शाकै रायो विभक्ता संभरश्च वस्वः ॥११॥


स्वर रहित पद पाठ

सम् । इन्द्रः । गाः । अजयत् । सम् । हिरण्या । सम् । अश्विया । मघऽवा । यः । ह । पूर्वीः । एभिः । नृऽभिः । नृऽतमः । अस्य । शाकैः । रायः । विऽभक्ता । सम्ऽभरः । च । वस्वः ॥