rigveda/4/14/1
ऋषिः - वामदेवो गौतमः
देवता - अग्निर्लिङ्गोक्ता वा
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
प्रति॑ । अ॒ग्निः । उ॒षसः॑ । जा॒तऽवे॑दाः । अख्य॑त् । दे॒वः । रोच॑मानाः । महः॑ऽभिः । आ । ना॒स॒त्या॒ । उ॒रु॒ऽगा॒या । रथे॑न । इ॒मम् । य॒ज्ञम् । उप॑ । नः॒ । या॒त॒म् । अच्छ॑ ॥
प्रति । अग्निः । उषसः । जातऽवेदाः । अख्यत् । देवः । रोचमानाः । महःऽभिः । आ । नासत्या । उरुऽगाया । रथेन । इमम् । यज्ञम् । उप । नः । यातम् । अच्छ ॥