rigveda/4/13/3

यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म्। तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ॥३॥

यम् । सी॒म् । अकृ॑ण्वन् । तम॑से । वि॒ऽपृचे॑ । ध्रु॒वऽक्षे॑माः । अन॑वऽस्यन्तः । अर्थ॑म् । तम् । सूर्य॑म् । ह॒रितः॑ । स॒प्त । य॒ह्वीः । स्पश॑म् । विश्व॑स्य । जग॑तः । व॒ह॒न्ति॒ ॥

ऋषिः - वामदेवो गौतमः

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

यं सी॒मकृ॑ण्व॒न्तम॑से वि॒पृचे॑ ध्रु॒वक्षे॑मा॒ अन॑वस्यन्तो॒ अर्थ॑म्। तं सूर्यं॑ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ॥३॥

स्वर सहित पद पाठ

यम् । सी॒म् । अकृ॑ण्वन् । तम॑से । वि॒ऽपृचे॑ । ध्रु॒वऽक्षे॑माः । अन॑वऽस्यन्तः । अर्थ॑म् । तम् । सूर्य॑म् । ह॒रितः॑ । स॒प्त । य॒ह्वीः । स्पश॑म् । विश्व॑स्य । जग॑तः । व॒ह॒न्ति॒ ॥


स्वर रहित मन्त्र

यं सीमकृण्वन्तमसे विपृचे ध्रुवक्षेमा अनवस्यन्तो अर्थम्। तं सूर्यं हरितः सप्त यह्वीः स्पशं विश्वस्य जगतो वहन्ति ॥३॥


स्वर रहित पद पाठ

यम् । सीम् । अकृण्वन् । तमसे । विऽपृचे । ध्रुवऽक्षेमाः । अनवऽस्यन्तः । अर्थम् । तम् । सूर्यम् । हरितः । सप्त । यह्वीः । स्पशम् । विश्वस्य । जगतः । वहन्ति ॥