rigveda/4/11/6
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
आ॒रे । अ॒स्मत् । अम॑तिम् । आ॒रे । अंहः॑ । आ॒रे । विश्वा॑म् । दुः॒ऽम॒तिम् । यत् । नि॒ऽपासि॑ । दो॒षा । शि॒वः । स॒ह॒सः॒ । सू॒नो॒ इति॑ । अ॒ग्ने॒ । यम् । दे॒वः । आ । चि॒त् । सच॑से । स्व॒स्ति ॥
आरे । अस्मत् । अमतिम् । आरे । अंहः । आरे । विश्वाम् । दुःऽमतिम् । यत् । निऽपासि । दोषा । शिवः । सहसः । सूनो इति । अग्ने । यम् । देवः । आ । चित् । सचसे । स्वस्ति ॥