rigveda/4/10/5
ऋषिः - वामदेवो गौतमः
देवता - अग्निः
छन्दः - स्वराडुष्णिक्
स्वरः - ऋषभः
तव॑ । स्वादि॑ष्ठा । अग्ने॑ । सम्ऽदृ॑ष्टिः । इ॒दा । चि॒त् । अह्नः॑ । इ॒दा । चि॒त् । अ॒क्तोः । श्रि॒ये । रु॒क्मः । न । रो॒च॒ते॒ । उ॒पा॒के ॥
तव । स्वादिष्ठा । अग्ने । सम्ऽदृष्टिः । इदा । चित् । अह्नः । इदा । चित् । अक्तोः । श्रिये । रुक्मः । न । रोचते । उपाके ॥