rigveda/3/57/5

या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची। तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि॥

या । ते॒ । जि॒ह्वा । मधु॑ऽमती । सु॒ऽमे॒धाः । अग्ने॑ । दे॒वेषु॑ । उ॒च्यते॑ । उ॒रू॒ची । तया॑ । इ॒ह । विश्वा॒न् । अव॑से । यज॑त्रान् । आ । सा॒द॒य॒ । पा॒यया॑ । च॒ । मधू॑नि ॥

ऋषिः - विश्वामित्रः

देवता - विश्वेदेवा:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

या ते॑ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने॑ दे॒वेषू॒च्यत॑ उरू॒ची। तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा॑दय पा॒यया॑ चा॒ मधू॑नि॥

स्वर सहित पद पाठ

या । ते॒ । जि॒ह्वा । मधु॑ऽमती । सु॒ऽमे॒धाः । अग्ने॑ । दे॒वेषु॑ । उ॒च्यते॑ । उ॒रू॒ची । तया॑ । इ॒ह । विश्वा॒न् । अव॑से । यज॑त्रान् । आ । सा॒द॒य॒ । पा॒यया॑ । च॒ । मधू॑नि ॥


स्वर रहित मन्त्र

या ते जिह्वा मधुमती सुमेधा अग्ने देवेषूच्यत उरूची। तयेह विश्वाँ अवसे यजत्राना सादय पायया चा मधूनि॥


स्वर रहित पद पाठ

या । ते । जिह्वा । मधुऽमती । सुऽमेधाः । अग्ने । देवेषु । उच्यते । उरूची । तया । इह । विश्वान् । अवसे । यजत्रान् । आ । सादय । पायया । च । मधूनि ॥