rigveda/3/56/5

त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट्। ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः॥

त्री । ष॒धऽस्था॑ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒ऽमा॒ता । वि॒दथे॑षु । स॒म्ऽराट् । ऋ॒तऽव॑रीः । योष॑णाः । ति॒स्रः । अप्याः॑ । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानाः ॥

ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा

देवता - विश्वेदेवा:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

त्री ष॒धस्था॑ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे॑षु स॒म्राट्। ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः॥

स्वर सहित पद पाठ

त्री । ष॒धऽस्था॑ । सि॒न्ध॒वः॒ । त्रिः । क॒वी॒नाम् । उ॒त । त्रि॒ऽमा॒ता । वि॒दथे॑षु । स॒म्ऽराट् । ऋ॒तऽव॑रीः । योष॑णाः । ति॒स्रः । अप्याः॑ । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानाः ॥


स्वर रहित मन्त्र

त्री षधस्था सिन्धवस्त्रिः कवीनामुत त्रिमाता विदथेषु सम्राट्। ऋतावरीर्योषणास्तिस्रो अप्यास्त्रिरा दिवो विदथे पत्यमानाः॥


स्वर रहित पद पाठ

त्री । षधऽस्था । सिन्धवः । त्रिः । कवीनाम् । उत । त्रिऽमाता । विदथेषु । सम्ऽराट् । ऋतऽवरीः । योषणाः । तिस्रः । अप्याः । त्रिः । आ । दिवः । विदथे । पत्यमानाः ॥