rigveda/3/56/2
ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा
देवता - विश्वेदेवा:
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
षट् । भा॒रान् । एकः॑ । अच॑रन् । बि॒भ॒र्ति॒ । ऋ॒तम् । वर्षि॑ष्ठम् । उप॑ । गावः॑ । आ । अ॒गुः॒ । ति॒स्रः । म॒हीः । उप॑राः । त॒स्थुः॒ । अत्याः॑ । गुहा॑ । द्वे इति॑ । निहि॑ते॒ इति॒ निऽहि॑ते । दर्शि॑ । एका॑ ॥
षट् । भारान् । एकः । अचरन् । बिभर्ति । ऋतम् । वर्षिष्ठम् । उप । गावः । आ । अगुः । तिस्रः । महीः । उपराः । तस्थुः । अत्याः । गुहा । द्वे इति । निहिते इति निऽहिते । दर्शि । एका ॥