rigveda/3/55/8

शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत्। अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

शूर॑स्यऽइव । युध्य॑तः । अ॒न्त॒मस्य॑ । प्र॒ती॒चीन॑म् । द॒दृ॒शे॒ । विश्व॑म् । आ॒ऽयत् । अ॒न्तः । म॒तिः । च॒र॒ति॒ । निः॒ऽसिध॑म् । गोः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा

देवता - विश्वेदेवा, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं॑ ददृशे॒ विश्व॑मा॒यत्। अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

स्वर सहित पद पाठ

शूर॑स्यऽइव । युध्य॑तः । अ॒न्त॒मस्य॑ । प्र॒ती॒चीन॑म् । द॒दृ॒शे॒ । विश्व॑म् । आ॒ऽयत् । अ॒न्तः । म॒तिः । च॒र॒ति॒ । निः॒ऽसिध॑म् । गोः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥


स्वर रहित मन्त्र

शूरस्येव युध्यतो अन्तमस्य प्रतीचीनं ददृशे विश्वमायत्। अन्तर्मतिश्चरति निष्षिधं गोर्महद्देवानामसुरत्वमेकम्॥


स्वर रहित पद पाठ

शूरस्यऽइव । युध्यतः । अन्तमस्य । प्रतीचीनम् । ददृशे । विश्वम् । आऽयत् । अन्तः । मतिः । चरति । निःऽसिधम् । गोः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥