rigveda/3/55/7

द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः। प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

द्वि॒ऽमा॒ता । होता॑ । वि॒दथे॑षु । स॒म्ऽराट् । अनु॑ । अग्र॑म् । चर॑ति । क्षेति॑ । बु॒ध्नः । प्र । रण्या॑नि । र॒ण्य॒ऽवाचः॑ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा

देवता - विश्वेदेवा, अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

द्वि॒मा॒ता होता॑ वि॒दथे॑षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः। प्र रण्या॑नि रण्य॒वाचो॑ भरन्ते म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

स्वर सहित पद पाठ

द्वि॒ऽमा॒ता । होता॑ । वि॒दथे॑षु । स॒म्ऽराट् । अनु॑ । अग्र॑म् । चर॑ति । क्षेति॑ । बु॒ध्नः । प्र । रण्या॑नि । र॒ण्य॒ऽवाचः॑ । भ॒र॒न्ते॒ । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥


स्वर रहित मन्त्र

द्विमाता होता विदथेषु सम्राळन्वग्रं चरति क्षेति बुध्नः। प्र रण्यानि रण्यवाचो भरन्ते महद्देवानामसुरत्वमेकम्॥


स्वर रहित पद पाठ

द्विऽमाता । होता । विदथेषु । सम्ऽराट् । अनु । अग्रम् । चरति । क्षेति । बुध्नः । प्र । रण्यानि । रण्यऽवाचः । भरन्ते । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥