rigveda/3/55/12

मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची। ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

मा॒ता । च॒ । यत्र॑ । दु॒हि॒ता । च॒ । धे॒नू इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । धा॒पये॑ते॒ इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । ऋ॒तस्य॑ । ते॒ । सद॑सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा

देवता - विश्वेदेवा, रोदसी

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे॑ धा॒पये॑ते समी॒ची। ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

स्वर सहित पद पाठ

मा॒ता । च॒ । यत्र॑ । दु॒हि॒ता । च॒ । धे॒नू इति॑ । स॒ब॒र्दुघे॒ इति॑ स॒बः॒ऽदुघे॑ । धा॒पये॑ते॒ इति॑ । स॒मी॒ची इति॑ स॒म्ऽई॒ची । ऋ॒तस्य॑ । ते॒ । सद॑सि । ई॒ळे॒ । अ॒न्तः । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥


स्वर रहित मन्त्र

माता च यत्र दुहिता च धेनू सबर्दुघे धापयेते समीची। ऋतस्य ते सदसीळे अन्तर्महद्देवानामसुरत्वमेकम्॥


स्वर रहित पद पाठ

माता । च । यत्र । दुहिता । च । धेनू इति । सबर्दुघे इति सबःऽदुघे । धापयेते इति । समीची इति सम्ऽईची । ऋतस्य । ते । सदसि । ईळे । अन्तः । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥