rigveda/3/55/1

उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः। व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

उ॒षसः॑ । पूर्वाः॑ । अध॑ । यत् । वि॒ऽऊ॒षुः । म॒हत् । वि । ज॒ज्ञे॒ । अ॒क्षर॑म् । प॒दे । गोः । व्र॒ता । दे॒वाना॑म् । उप॑ । नु । प्र॒ऽभूष॑न् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥

ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा

देवता - विश्वेदेवा, उषा

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं॑ प॒दे गोः। व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष॑न्म॒हद्दे॒वाना॑मसुर॒त्वमेक॑म्॥

स्वर सहित पद पाठ

उ॒षसः॑ । पूर्वाः॑ । अध॑ । यत् । वि॒ऽऊ॒षुः । म॒हत् । वि । ज॒ज्ञे॒ । अ॒क्षर॑म् । प॒दे । गोः । व्र॒ता । दे॒वाना॑म् । उप॑ । नु । प्र॒ऽभूष॑न् । म॒हत् । दे॒वाना॑म् । अ॒सु॒र॒ऽत्वम् । एक॑म् ॥


स्वर रहित मन्त्र

उषसः पूर्वा अध यद्व्यूषुर्महद्वि जज्ञे अक्षरं पदे गोः। व्रता देवानामुप नु प्रभूषन्महद्देवानामसुरत्वमेकम्॥


स्वर रहित पद पाठ

उषसः । पूर्वाः । अध । यत् । विऽऊषुः । महत् । वि । जज्ञे । अक्षरम् । पदे । गोः । व्रता । देवानाम् । उप । नु । प्रऽभूषन् । महत् । देवानाम् । असुरऽत्वम् । एकम् ॥