rigveda/3/54/6

क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती। नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने॥

क॒विः । नृ॒ऽचक्षा॑ । अ॒भि । सी॒म् । अ॒च॒ष्ट॒ । ऋ॒तस्य॑ । योना॑ । विघृ॑ते॒ इति॒ विऽघृ॑ते । मद॑न्ती॒ इति॑ । नाना॑ । च॒क्रा॒ते॒ इति॑ । सद॑नम् । यथा॑ । वेः । स॒मा॒नेन॑ । क्रतु॑ना । स॒व्ँम्वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने ॥

ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा

देवता - विश्वेदेवा:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

क॒विर्नृ॒चक्षा॑ अ॒भि षी॑मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद॑न्ती। नाना॑ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने॥

स्वर सहित पद पाठ

क॒विः । नृ॒ऽचक्षा॑ । अ॒भि । सी॒म् । अ॒च॒ष्ट॒ । ऋ॒तस्य॑ । योना॑ । विघृ॑ते॒ इति॒ विऽघृ॑ते । मद॑न्ती॒ इति॑ । नाना॑ । च॒क्रा॒ते॒ इति॑ । सद॑नम् । यथा॑ । वेः । स॒मा॒नेन॑ । क्रतु॑ना । स॒व्ँम्वि॒दा॒ने इति॑ स॒म्ऽवि॒दा॒ने ॥


स्वर रहित मन्त्र

कविर्नृचक्षा अभि षीमचष्ट ऋतस्य योना विघृते मदन्ती। नाना चक्राते सदनं यथा वेः समानेन क्रतुना संविदाने॥


स्वर रहित पद पाठ

कविः । नृऽचक्षा । अभि । सीम् । अचष्ट । ऋतस्य । योना । विघृते इति विऽघृते । मदन्ती इति । नाना । चक्राते इति । सदनम् । यथा । वेः । समानेन । क्रतुना । सव्ँम्विदाने इति सम्ऽविदाने ॥