rigveda/3/54/14

विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन्। उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः॥

विष्णु॑म् । स्तोमा॑सः । पु॒रु॒ऽद॒स्मम् । अ॒र्काः । भग॑स्यऽइव । का॒रिणः॑ । याम॑नि । ग्म॒न् । उ॒रु॒ऽक्र॒मः । क॒कु॒हः । यस्य॑ । पू॒र्वीः । न । म॒र्ध॒न्ति॒ । यु॒व॒तयः॑ । जनि॑त्रीः ॥

ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा

देवता - विश्वेदेवा:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

विष्णुं॒ स्तोमा॑सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन्। उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः॥

स्वर सहित पद पाठ

विष्णु॑म् । स्तोमा॑सः । पु॒रु॒ऽद॒स्मम् । अ॒र्काः । भग॑स्यऽइव । का॒रिणः॑ । याम॑नि । ग्म॒न् । उ॒रु॒ऽक्र॒मः । क॒कु॒हः । यस्य॑ । पू॒र्वीः । न । म॒र्ध॒न्ति॒ । यु॒व॒तयः॑ । जनि॑त्रीः ॥


स्वर रहित मन्त्र

विष्णुं स्तोमासः पुरुदस्ममर्का भगस्येव कारिणो यामनि ग्मन्। उरुक्रमः ककुहो यस्य पूर्वीर्न मर्धन्ति युवतयो जनित्रीः॥


स्वर रहित पद पाठ

विष्णुम् । स्तोमासः । पुरुऽदस्मम् । अर्काः । भगस्यऽइव । कारिणः । यामनि । ग्मन् । उरुऽक्रमः । ककुहः । यस्य । पूर्वीः । न । मर्धन्ति । युवतयः । जनित्रीः ॥