rigveda/3/54/11

हि॒र॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः। दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम्॥

हिर॑ण्यऽपाणिः॑ । स॒वि॒ता । सु॒ऽजि॒ह्वः । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानः । दे॒वेषु॑ । च॒ । स॒वि॒त॒रिति॑ । श्लोक॑म् । अश्रेः॑ । आत् । अ॒स्मभ्य॑म् । आ । सु॒व॒ । स॒र्वऽता॑तिम् ॥

ऋषिः - प्रजापतिर्वैश्वामित्रो वाच्यो वा

देवता - विश्वेदेवा:

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

हि॒र॑ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः। दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता॑तिम्॥

स्वर सहित पद पाठ

हिर॑ण्यऽपाणिः॑ । स॒वि॒ता । सु॒ऽजि॒ह्वः । त्रिः । आ । दि॒वः । वि॒दथे॑ । पत्य॑मानः । दे॒वेषु॑ । च॒ । स॒वि॒त॒रिति॑ । श्लोक॑म् । अश्रेः॑ । आत् । अ॒स्मभ्य॑म् । आ । सु॒व॒ । स॒र्वऽता॑तिम् ॥


स्वर रहित मन्त्र

हिरण्यपाणिः सविता सुजिह्वस्त्रिरा दिवो विदथे पत्यमानः। देवेषु च सवितः श्लोकमश्रेरादस्मभ्यमा सुव सर्वतातिम्॥


स्वर रहित पद पाठ

हिरण्यऽपाणिः । सविता । सुऽजिह्वः । त्रिः । आ । दिवः । विदथे । पत्यमानः । देवेषु । च । सवितरिति । श्लोकम् । अश्रेः । आत् । अस्मभ्यम् । आ । सुव । सर्वऽतातिम् ॥