rigveda/3/4/1
ऋषिः - गाथिनो विश्वामित्रः
देवता - आप्रियः
छन्दः - स्वराट्पङ्क्ति
स्वरः - पञ्चमः
स॒मित्ऽस॑मित् । सु॒ऽमनाः॑ । बो॒धि॒ । अ॒स्मे इति॑ । शु॒चाऽशु॑चा । सु॒ऽम॒तिम् । रा॒सि॒ । वस्वः॑ । आ । दे॒व॒ । दे॒वान् । य॒जथा॑य । व॒क्षि॒ । सखा॑ । सखी॑न् । सु॒ऽमनाः॑ । य॒क्षि॒ । अ॒ग्ने॒ ॥
समित्ऽसमित् । सुऽमनाः । बोधि । अस्मे इति । शुचाऽशुचा । सुऽमतिम् । रासि । वस्वः । आ । देव । देवान् । यजथाय । वक्षि । सखा । सखीन् । सुऽमनाः । यक्षि । अग्ने ॥