rigveda/3/35/5

मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये। अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑॥

मा । ते॒ । हरी॒ इति॑ । वृष॑णा । वी॒तऽपृ॑ष्ठा । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये । अ॒ति॒ऽआया॑हि । शश्व॑तः । व॒यम् । ते । अर॑म् । सु॒तेभिः॑ । कृ॒ण॒वा॒म॒ । सोमैः॑ ॥

ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा

देवता - इन्द्र:

छन्दः - स्वराट्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री॑रम॒न्यज॑मानासो अ॒न्ये। अ॒त्याया॑हि॒ शश्व॑तो व॒यं तेऽरं॑ सु॒तेभिः॑ कृणवाम॒ सोमैः॑॥

स्वर सहित पद पाठ

मा । ते॒ । हरी॒ इति॑ । वृष॑णा । वी॒तऽपृ॑ष्ठा । नि । री॒र॒म॒न् । यज॑मानासः । अ॒न्ये । अ॒ति॒ऽआया॑हि । शश्व॑तः । व॒यम् । ते । अर॑म् । सु॒तेभिः॑ । कृ॒ण॒वा॒म॒ । सोमैः॑ ॥


स्वर रहित मन्त्र

मा ते हरी वृषणा वीतपृष्ठा नि रीरमन्यजमानासो अन्ये। अत्यायाहि शश्वतो वयं तेऽरं सुतेभिः कृणवाम सोमैः॥


स्वर रहित पद पाठ

मा । ते । हरी इति । वृषणा । वीतऽपृष्ठा । नि । रीरमन् । यजमानासः । अन्ये । अतिऽआयाहि । शश्वतः । वयम् । ते । अरम् । सुतेभिः । कृणवाम । सोमैः ॥