rigveda/3/31/1
ऋषिः - गाथिनो विश्वामित्रः, ऐषीरथीः कुशिको वा
देवता - इन्द्र:
छन्दः - विराट्पङ्क्ति
स्वरः - पञ्चमः
शास॑त् । वह्निः॑ । दु॒हि॒तुः । न॒प्त्य॑म् । गा॒त् । वि॒द्वान् । ऋ॒तस्य॑ । दीधि॑तिम् । स॒प॒र्यन् । पि॒ता । यत्र॑ । दु॒हि॒तुः । सेक॑म् । ऋ॒ञ्जन् । सम् । श॒ग्म्ये॑न । मन॑सा । द॒ध॒न्वे ॥
शासत् । वह्निः । दुहितुः । नप्त्यम् । गात् । विद्वान् । ऋतस्य । दीधितिम् । सपर्यन् । पिता । यत्र । दुहितुः । सेकम् । ऋञ्जन् । सम् । शग्म्येन । मनसा । दधन्वे ॥