rigveda/3/30/9

नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ। अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः॥

नि । सा॒म॒नाम् । इ॒षि॒राम् । इ॒न्द्र॒ । भूमि॑म् । म॒हीम् । अ॒पा॒राम् । सद॑ने । स॒स॒त्थ॒ । अस्त॑भ्नात् । द्याम् । वृ॒ष॒भः । अ॒न्तरि॑क्षम् । अर्ष॑न्तु । आपः॑ । त्वया॑ । इ॒ह । प्रऽसू॑ताः ॥

ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा

देवता - इन्द्र:

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

नि सा॑म॒नामि॑षि॒रामि॑न्द्र॒ भूमिं॑ म॒हीम॑पा॒रां सद॑ने ससत्थ। अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू॑ताः॥

स्वर सहित पद पाठ

नि । सा॒म॒नाम् । इ॒षि॒राम् । इ॒न्द्र॒ । भूमि॑म् । म॒हीम् । अ॒पा॒राम् । सद॑ने । स॒स॒त्थ॒ । अस्त॑भ्नात् । द्याम् । वृ॒ष॒भः । अ॒न्तरि॑क्षम् । अर्ष॑न्तु । आपः॑ । त्वया॑ । इ॒ह । प्रऽसू॑ताः ॥


स्वर रहित मन्त्र

नि सामनामिषिरामिन्द्र भूमिं महीमपारां सदने ससत्थ। अस्तभ्नाद्द्यां वृषभो अन्तरिक्षमर्षन्त्वापस्त्वयेह प्रसूताः॥


स्वर रहित पद पाठ

नि । सामनाम् । इषिराम् । इन्द्र । भूमिम् । महीम् । अपाराम् । सदने । ससत्थ । अस्तभ्नात् । द्याम् । वृषभः । अन्तरिक्षम् । अर्षन्तु । आपः । त्वया । इह । प्रऽसूताः ॥