rigveda/3/30/7

यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः। भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः॥

यस्मै॑ । धायुः॑ । अद॑धाः । मर्त्या॑य । अभ॑क्तम् । चि॒त् । भ॒ज॒ते॒ । गे॒ह्य॑म् । सः । भ॒द्रा । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तिः । घृ॒ताची॑ । स॒हस्र॑ऽदाना । पु॒रु॒ऽहू॒त॒ । रा॒तिः ॥

ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा

देवता - इन्द्र:

छन्दः - भुरिक्पङ्क्ति

स्वरः - पञ्चमः

स्वर सहित मन्त्र

यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्यं१॒॑ सः। भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची॑ स॒हस्र॑दाना पुरुहूत रा॒तिः॥

स्वर सहित पद पाठ

यस्मै॑ । धायुः॑ । अद॑धाः । मर्त्या॑य । अभ॑क्तम् । चि॒त् । भ॒ज॒ते॒ । गे॒ह्य॑म् । सः । भ॒द्रा । ते॒ । इ॒न्द्र॒ । सु॒ऽम॒तिः । घृ॒ताची॑ । स॒हस्र॑ऽदाना । पु॒रु॒ऽहू॒त॒ । रा॒तिः ॥


स्वर रहित मन्त्र

यस्मै धायुरदधा मर्त्यायाभक्तं चिद्भजते गेह्यं१ सः। भद्रा त इन्द्र सुमतिर्घृताची सहस्रदाना पुरुहूत रातिः॥


स्वर रहित पद पाठ

यस्मै । धायुः । अदधाः । मर्त्याय । अभक्तम् । चित् । भजते । गेह्यम् । सः । भद्रा । ते । इन्द्र । सुऽमतिः । घृताची । सहस्रऽदाना । पुरुऽहूत । रातिः ॥