rigveda/3/29/9

कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धन्त इतन॒ वाज॒मच्छ॑। अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न्॥

कृ॒णोत॑ । धू॒म॑म् । वृष॑णम् । स॒खा॒यः॒ । अस्रे॑धन्तः । इ॒त॒न॒ । वाज॑म् । अच्छ॑ । अ॒यम् । अ॒ग्निः । पृ॒त॒ना॒षाट् । सु॒ऽवीरः॑ । येन॑ । दे॒वासः॑ । अस॑हन्त । दस्यू॑न् ॥

ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे॑धन्त इतन॒ वाज॒मच्छ॑। अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न्॥

स्वर सहित पद पाठ

कृ॒णोत॑ । धू॒म॑म् । वृष॑णम् । स॒खा॒यः॒ । अस्रे॑धन्तः । इ॒त॒न॒ । वाज॑म् । अच्छ॑ । अ॒यम् । अ॒ग्निः । पृ॒त॒ना॒षाट् । सु॒ऽवीरः॑ । येन॑ । दे॒वासः॑ । अस॑हन्त । दस्यू॑न् ॥


स्वर रहित मन्त्र

कृणोत धूमं वृषणं सखायोऽस्रेधन्त इतन वाजमच्छ। अयमग्निः पृतनाषाट् सुवीरो येन देवासो असहन्त दस्यून्॥


स्वर रहित पद पाठ

कृणोत । धूमम् । वृषणम् । सखायः । अस्रेधन्तः । इतन । वाजम् । अच्छ । अयम् । अग्निः । पृतनाषाट् । सुऽवीरः । येन । देवासः । असहन्त । दस्यून् ॥