rigveda/3/29/7

जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑। यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑॥

जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि॑तानः । वा॒जी । विप्रः॑ । क॒वि॒ऽश॒स्तः । सु॒ऽदानुः॑ । यम् । दे॒वासः॑ । ईड्य॑म् । वि॒श्व॒ऽविद॑म् । ह॒व्य॒ऽवाह॑म् । अद॑धुः । अ॒ध्व॒रेषु॑ ॥

ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा

देवता - अग्निः

छन्दः - निचृत्त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

जा॒तो अ॒ग्नी रो॑चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑। यं दे॒वास॒ ईड्यं॑ विश्व॒विदं॑ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑॥

स्वर सहित पद पाठ

जा॒तः । अ॒ग्निः । रो॒च॒ते॒ । चेकि॑तानः । वा॒जी । विप्रः॑ । क॒वि॒ऽश॒स्तः । सु॒ऽदानुः॑ । यम् । दे॒वासः॑ । ईड्य॑म् । वि॒श्व॒ऽविद॑म् । ह॒व्य॒ऽवाह॑म् । अद॑धुः । अ॒ध्व॒रेषु॑ ॥


स्वर रहित मन्त्र

जातो अग्नी रोचते चेकितानो वाजी विप्रः कविशस्तः सुदानुः। यं देवास ईड्यं विश्वविदं हव्यवाहमदधुरध्वरेषु॥


स्वर रहित पद पाठ

जातः । अग्निः । रोचते । चेकितानः । वाजी । विप्रः । कविऽशस्तः । सुऽदानुः । यम् । देवासः । ईड्यम् । विश्वऽविदम् । हव्यऽवाहम् । अदधुः । अध्वरेषु ॥