rigveda/3/28/4

माध्य॑न्दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व। अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीराः॑॥

माध्य॑न्दिने । सव॑ने । जा॒त॒ऽवे॒दः॒ । पु॒रो॒ळाश॑म् । इ॒ह । क॒वे॒ । जु॒ष॒स्व॒ । अग्ने॑ । य॒ह्वस्य॑ । तव॑ । भा॒ग॒ऽधेय॑म् । न । प्र । मि॒न॒न्ति॒ । वि॒दथे॑षु । धीराः॑ ॥

ऋषिः - गोपवन आत्रेयः सप्तवध्रिर्वा

देवता - अग्निः

छन्दः - त्रिष्टुप्

स्वरः - धैवतः

स्वर सहित मन्त्र

माध्य॑न्दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व। अग्ने॑ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे॑षु॒ धीराः॑॥

स्वर सहित पद पाठ

माध्य॑न्दिने । सव॑ने । जा॒त॒ऽवे॒दः॒ । पु॒रो॒ळाश॑म् । इ॒ह । क॒वे॒ । जु॒ष॒स्व॒ । अग्ने॑ । य॒ह्वस्य॑ । तव॑ । भा॒ग॒ऽधेय॑म् । न । प्र । मि॒न॒न्ति॒ । वि॒दथे॑षु । धीराः॑ ॥


स्वर रहित मन्त्र

माध्यन्दिने सवने जातवेदः पुरोळाशमिह कवे जुषस्व। अग्ने यह्वस्य तव भागधेयं न प्र मिनन्ति विदथेषु धीराः॥


स्वर रहित पद पाठ

माध्यन्दिने । सवने । जातऽवेदः । पुरोळाशम् । इह । कवे । जुषस्व । अग्ने । यह्वस्य । तव । भागऽधेयम् । न । प्र । मिनन्ति । विदथेषु । धीराः ॥