rigveda/3/22/2
ऋषिः - गाथी कौशिकः
देवता - पुरीष्या अग्नयः
छन्दः - भुरिक्पङ्क्ति
स्वरः - पञ्चमः
अग्ने॑ । यत् । ते॒ । दि॒वि । वर्चः॑ । पृ॒थि॒व्याम् । यत् । ओष॑धीषु । अ॒प्ऽसु । आ । य॒ज॒त्र॒ । येन॑ । अ॒न्तरि॑क्षम् । उ॒रु । आ॒ऽत॒तन्थ॑ । त्वे॒षः । सः । भा॒नुः । अ॒र्ण॒वः । नृ॒ऽचक्षाः॑ ॥
अग्ने । यत् । ते । दिवि । वर्चः । पृथिव्याम् । यत् । ओषधीषु । अप्ऽसु । आ । यजत्र । येन । अन्तरिक्षम् । उरु । आऽततन्थ । त्वेषः । सः । भानुः । अर्णवः । नृऽचक्षाः ॥