rigveda/3/20/5
ऋषिः - गाथी कौशिकः
देवता - विश्वेदेवा:
छन्दः - त्रिष्टुप्
स्वरः - धैवतः
द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । बृह॒स्पति॑म् । स॒वि॒तार॑म् । च॒ । दे॒वम् । अ॒श्विना॑ । मि॒त्रावरु॑णा । भग॑म् । च॒ । वसू॑न् । रु॒द्रा॑न् । आ॒दि॒त्या॑न् । इ॒ह । हु॒वे॒ ॥
दधिऽक्राम् । अग्निम् । उषसम् । च । देवीम् । बृहस्पतिम् । सवितारम् । च । देवम् । अश्विना । मित्रावरुणा । भगम् । च । वसून् । रुद्रान् । आदित्यान् । इह । हुवे ॥