rigveda/3/20/1
ऋषिः - गाथी कौशिकः
देवता - विश्वेदेवा:
छन्दः - विराट्त्रिष्टुप्
स्वरः - धैवतः
अ॒ग्निम् । उ॒षस॑म् । अ॒श्विना॑ । द॒धि॒ऽक्राम् । विऽउ॑ष्टिषु । ह॒व॒ते॒ । वह्निः॑ । उ॒क्थैः । सु॒ऽज्योति॑षः । नः॒ । शृ॒ण्व॒न्तु॒ । दे॒वाः । स॒ऽजोष॑सः । अ॒ध्व॒रम् । वा॒व॒शा॒नाः ॥
अग्निम् । उषसम् । अश्विना । दधिऽक्राम् । विऽउष्टिषु । हवते । वह्निः । उक्थैः । सुऽज्योतिषः । नः । शृण्वन्तु । देवाः । सऽजोषसः । अध्वरम् । वावशानाः ॥