rigveda/3/2/9

ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः। तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः॥

ति॒स्रः । य॒ह्वस्य॑ । स॒म्ऽइधः॑ । परि॑ऽज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः॑ । अमृ॑त्यवः । तासा॑म् । एका॑म् । अद॑धुः । मर्त्ये॑ । भुज॑म् । ऊँ॒ इति॑ । लो॒कम् । ऊँ॒ इति॑ । द्वे इति॑ । उप॑ । जा॒मिम् । ई॒य॒तुः॒ ॥

ऋषिः - गाथिनो विश्वामित्रः

देवता - अग्निर्वैश्वानरः

छन्दः - विराड्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः। तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी॑यतुः॥

स्वर सहित पद पाठ

ति॒स्रः । य॒ह्वस्य॑ । स॒म्ऽइधः॑ । परि॑ऽज्मनः । अ॒ग्नेः । अ॒पु॒न॒न् । उ॒शिजः॑ । अमृ॑त्यवः । तासा॑म् । एका॑म् । अद॑धुः । मर्त्ये॑ । भुज॑म् । ऊँ॒ इति॑ । लो॒कम् । ऊँ॒ इति॑ । द्वे इति॑ । उप॑ । जा॒मिम् । ई॒य॒तुः॒ ॥


स्वर रहित मन्त्र

तिस्रो यह्वस्य समिधः परिज्मनोऽग्नेरपुनन्नुशिजो अमृत्यवः। तासामेकामदधुर्मर्त्ये भुजमु लोकमु द्वे उप जामिमीयतुः॥


स्वर रहित पद पाठ

तिस्रः । यह्वस्य । सम्ऽइधः । परिऽज्मनः । अग्नेः । अपुनन् । उशिजः । अमृत्यवः । तासाम् । एकाम् । अदधुः । मर्त्ये । भुजम् । ऊँ इति । लोकम् । ऊँ इति । द्वे इति । उप । जामिम् । ईयतुः ॥