rigveda/3/2/8
ऋषिः - गाथिनो विश्वामित्रः
देवता - अग्निर्वैश्वानरः
छन्दः - विराड्जगती
स्वरः - निषादः
न॒म॒स्यत॑ । ह॒व्यऽदा॑तिम् । सु॒ऽअ॒ध्व॒रम् । दु॒व॒स्यत॑ । दभ्य॑म् । जा॒तऽवे॑दसम् । र॒थीः । ऋ॒तस्य॑ । बृ॒ह॒तः । विऽच॑र्षणिः । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रःऽहि॑तः ॥
नमस्यत । हव्यऽदातिम् । सुऽअध्वरम् । दुवस्यत । दभ्यम् । जातऽवेदसम् । रथीः । ऋतस्य । बृहतः । विऽचर्षणिः । अग्निः । देवानाम् । अभवत् । पुरःऽहितः ॥