rigveda/3/2/15

म॒न्द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिम्। रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे॥

म॒न्द्रम् । होता॑रम् । शुचि॑म् । अद्व॑याविनम् । दमू॑नसम् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् । रथ॑म् । न । चि॒त्रम् । वपु॑षाय । द॒र्श॒तम् । मनुः॑ऽहितम् । सद॑म् । इत् । रा॒यः । ई॒म॒हे॒ ॥

ऋषिः - गाथिनो विश्वामित्रः

देवता - अग्निर्वैश्वानरः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

म॒न्द्रं होता॑रं॒ शुचि॒मद्व॑याविनं॒ दमू॑नसमु॒क्थ्यं॑ वि॒श्वच॑र्षणिम्। रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई॑महे॥

स्वर सहित पद पाठ

म॒न्द्रम् । होता॑रम् । शुचि॑म् । अद्व॑याविनम् । दमू॑नसम् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् । रथ॑म् । न । चि॒त्रम् । वपु॑षाय । द॒र्श॒तम् । मनुः॑ऽहितम् । सद॑म् । इत् । रा॒यः । ई॒म॒हे॒ ॥


स्वर रहित मन्त्र

मन्द्रं होतारं शुचिमद्वयाविनं दमूनसमुक्थ्यं विश्वचर्षणिम्। रथं न चित्रं वपुषाय दर्शतं मनुर्हितं सदमिद्राय ईमहे॥


स्वर रहित पद पाठ

मन्द्रम् । होतारम् । शुचिम् । अद्वयाविनम् । दमूनसम् । उक्थ्यम् । विश्वऽचर्षणिम् । रथम् । न । चित्रम् । वपुषाय । दर्शतम् । मनुःऽहितम् । सदम् । इत् । रायः । ईमहे ॥