rigveda/3/2/13

ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म्। तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से॥

ऋ॒तऽवा॑नम् । य॒ज्ञिय॑म् । विप्र॑म् । उ॒क्थ्य॑म् । आ । यम् । द॒धे । मा॒त॒रिश्वा॑ । दि॒वि । क्षय॑म् । तम् । चि॒त्रऽया॑मम् । हरि॑ऽकेशम् । ई॒म॒हे॒ । सु॒ऽदी॒तिम् । अ॒ग्निम् । सु॒वि॒ताय॑ । नव्य॑से ॥

ऋषिः - गाथिनो विश्वामित्रः

देवता - अग्निर्वैश्वानरः

छन्दः - निचृज्जगती

स्वरः - निषादः

स्वर सहित मन्त्र

ऋ॒तावा॑नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॒॑मा यं द॒धे मा॑त॒रिश्वा॑ दि॒वि क्षय॑म्। तं चि॒त्रया॑मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से॥

स्वर सहित पद पाठ

ऋ॒तऽवा॑नम् । य॒ज्ञिय॑म् । विप्र॑म् । उ॒क्थ्य॑म् । आ । यम् । द॒धे । मा॒त॒रिश्वा॑ । दि॒वि । क्षय॑म् । तम् । चि॒त्रऽया॑मम् । हरि॑ऽकेशम् । ई॒म॒हे॒ । सु॒ऽदी॒तिम् । अ॒ग्निम् । सु॒वि॒ताय॑ । नव्य॑से ॥


स्वर रहित मन्त्र

ऋतावानं यज्ञियं विप्रमुक्थ्य१मा यं दधे मातरिश्वा दिवि क्षयम्। तं चित्रयामं हरिकेशमीमहे सुदीतिमग्निं सुविताय नव्यसे॥


स्वर रहित पद पाठ

ऋतऽवानम् । यज्ञियम् । विप्रम् । उक्थ्यम् । आ । यम् । दधे । मातरिश्वा । दिवि । क्षयम् । तम् । चित्रऽयामम् । हरिऽकेशम् । ईमहे । सुऽदीतिम् । अग्निम् । सुविताय । नव्यसे ॥