rigveda/3/10/6

अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑। म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः॥

अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ । म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥

ऋषिः - गाथिनो विश्वामित्रः

देवता - अग्निः

छन्दः - निचृदुष्णिक्

स्वरः - ऋषभः

स्वर सहित मन्त्र

अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑। म॒हे वाजा॑य॒ द्रवि॑णाय दर्श॒तः॥

स्वर सहित पद पाठ

अ॒ग्निम् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । यतः॑ । जाय॑ते । उ॒क्थ्यः॑ । म॒हे । वाजा॑य । द्रवि॑णाय । द॒र्श॒तः ॥


स्वर रहित मन्त्र

अग्निं वर्धन्तु नो गिरो यतो जायत उक्थ्यः। महे वाजाय द्रविणाय दर्शतः॥


स्वर रहित पद पाठ

अग्निम् । वर्धन्तु । नः । गिरः । यतः । जायते । उक्थ्यः । महे । वाजाय । द्रविणाय । दर्शतः ॥